International Journal of Multidisciplinary Trends
  • Printed Journal
  • Refereed Journal
  • Peer Reviewed Journal

2022, Vol. 4, Issue 1, Part C

शिक्षाशास्त्रनुसारं व्यक्तित्वम्


Author(s): डॉ. सन्तोष कुमार झा

Abstract:
व्यक्तित्वे एकस्य मनुष्यस्य न केवलं शारीरिकानां मानसिकानां वा गुणानामपितु तस्य सामाजिकगुणानां समावेशः भवति मनोवैज्ञानिकानां कथनमस्ति यत् व्यक्तित्वं मानवीयगुणानां लक्षणानां क्षमतानां विशेषताना×च संगठितान्विति अस्ति। आधुनिकमनोवैज्ञानिकाः व्यक्तित्वं सघ्घठितान्वितिरूपेण स्वीकृत्य गतिशीलसघ्घठनस्य एकीकरणस्य च प्रक्रियारूपेण स्वीकुर्वन्ति।
व्यक्तित्वशब्दः आंग्लभाषायाः पर्सनैलिटीशब्दस्य रूपान्तरं वर्तते। आंग्लभाषायाः अस्य शब्दस्योत्पत्तिः यूनानीभाषायाः ‘पर्सोना’शब्दात् अभवत्। अस्यामभिप्रायः अस्ति ‘यवनिका’।
यूनानीजनाः अभिनयकाले वास्तविकस्वरूपं गोपयितुं रंगभूमौ येनां यवनिका-दास-विदूषक-नर्तकीनामभिनयं कुर्वन्ति स्म। अभिनयकर्ता यस्य पात्ररूपे अभिनयकर्तुं वा×छन्ति स्म तदनुसारं यवनिकां धारयन्ति स्म।
भारतीयमनोविज्ञाने व्यक्तित्वस्य सिद्धान्तानां विकास उपनिषदि, सांख्ययोगतन्त्रेषु च विस्तृतरूपेण प्राप्यते। एवम्भूतस्य सिद्धान्तस्य उल्लेखः भगवद्गीतायामपि प्राप्यते। भारतीयमनोविज्ञाने व्यक्तित्वं जीवात्मा इत्युच्यते। अयं सम्प्रत्ययः व्यक्तित्वस्य मनोदैहिकसंरचनायाः संबंधो नास्ति अपितु तस्य नैतिक, आध्यात्मिकतत्वैः सम्बन्धितमस्ति। प्रत्येकस्य जनस्य अन्तःकरणे जीवात्मा तिष्ठति। यः व्यक्तौ सर्वेषां दैहिकमानसिकसंरचनानां परिवर्तनेषु स्वमौलिकतां स्थापयति। यन्मानवः स्वचिन्तन-अनुभव-अभियोग्यता-क्षमता-चारित्रदिगुणानां समाहारेण किि×चत् कर्त्तुं पारयति। स आत्मनिष्ठः सन् समाजे स्वव्यक्तित्वस्य निर्माणं करोति। अतो{त्र किं नाम व्यक्तित्वम् ? तस्य लक्षणानि, परिभाषा तथा च कस्मै कृते आवश्यकमित्यादीनां विमर्शो{स्मिन् शोधपत्रे अग्रे भविष्यतीति शम्।


Pages: 137-143 | Views: 565 | Downloads: 206

Download Full Article: Click Here

International Journal of Multidisciplinary Trends
How to cite this article:
डॉ. सन्तोष कुमार झा. शिक्षाशास्त्रनुसारं व्यक्तित्वम्. Int J Multidiscip Trends 2022;4(1):137-143.
International Journal of Multidisciplinary Trends
Call for book chapter
Journals List Click Here Research Journals Research Journals